Chapter 8

 विचित्रः साक्षी

1. एकपदेन उत्तरं लिखत—

(क) कीदृशे प्रदेशे पदयात्रा न सुखावहा?

उत्तरम् — विजने

(ख) अतिथिः केन प्रबुद्धः?

उत्तरम् — पादध्वनिना

(ग) कृशकायः कः आसीत्?

उत्तरम् — अभियुक्तः

(घ) न्यायाधीशः कस्मै कारागारदण्डम् आदिष्टवान्?

उत्तरम् — आरक्षिणे

(ङ) कं निकषा मृतशरीरम् आसीत्?

उत्तरम् — जनम्


2. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत—

(क) निर्धनः जनः कथं वित्तम् उपार्जितवान्?

उत्तरम् — भूरि परिश्रम्य निर्धनः जनः वित्तम् उपार्जितवान्।

(ख) जनः किमर्थं पदातिः गच्छति?

उत्तरम् — पुत्रदर्शनार्थं जनः पदातिः गच्छति।

(ग) प्रसृते निशान्धकारे स किम् अचिन्तयत्?

उत्तरम् — निशान्धकारे पदयात्रा न शुभा इति स अचिन्तयत्।

(घ) वस्तुतः चौरः कः आसीत् ?

उत्तरम् — वस्तुतः चौरः ग्रामस्य आरक्षी आसीत्।

(ङ) जनस्य क्रन्दनं निशम्य आरक्षी किमुक्तवान्?

उत्तरम् — त्वया मञ्जूषा चोरिता, अतः फलं भुङ्क्ष्व, चौर्याभियोगे वर्षत्रयं कारादण्डं लप्स्यसे इति।

(च) मतिवैभवशालिनः दुष्कराणि कार्याणि कथं साधयन्ति ?

उत्तरम् — नीतिं युक्तिं च समालम्ब्य लीलयैव साधयन्ति।


एकपदेन उत्तरं लिखत (प्रश्न 1–5):

(1) कीदृशे प्रदेशे पदयात्रा न सुखावहा?
उत्तरम् विजने

(2) अतिथिः केन प्रबुद्धः?

उत्तरम् पादध्वनिना

(3) कृशकायः कः आसीत्?
उत्तरम् अभियुक्तः

(4) न्यायाधीशः कस्मै कारागारदण्डम् आदिष्टवान्?
उत्तरम् आरक्षिणे

(5) कं निकषा मृतशरीरम् आसीत्?
उत्तरम् जनम्

वाक्यरूपेण उत्तरं लिखत (प्रश्न 6–12):

(6) निर्धनः जनः कथं वित्तम् उपार्जितवान्?
उत्तरम् निर्धनः जनः भूरि परिश्रम्य किञ्चिद् वित्तम् उपार्जितवान्।

(7) जनः किमर्थं पदातिः गच्छति?
उत्तरम् जनः पुत्रस्य रुग्णतां ज्ञात्वा तं द्रष्टुं पदातिः गच्छति स्म।

(8) प्रसृते निशान्धकारे स किम् अचिन्तयत्?
उत्तरम्स अचिन्तयत् यत् निशान्धकारे विजने प्रदेशे पदयात्रा न शुभा।

(9) वस्तुतः चौरः कः आसीत्?
उत्तरम् वस्तुतः चौरः ग्रामस्य आरक्षी आसीत्।

(10) जनस्य क्रन्दनं निशम्य आरक्षी किमुक्तवान्?
उत्तरम् आरक्षी उक्तवान्— त्वया मञ्जूषा चोरिता, इदानीं निजकृत्यस्य फलं भुङ्क्ष्व, चौर्याभियोगे त्वं वर्षत्रयं कारादण्डं लप्स्यसे।

(11) शवः न्यायालये किमर्थं नीतम्?
उत्तरम् शवः सत्यं निर्णेतुं न्यायाधीशस्य आज्ञया न्यायालयं नीतम्।

(12) मतिवैभवशालिनः दुष्कराणि कार्याणि कथं साधयन्ति?
उत्तरम् मतिवैभवशालिनः नीतिं युक्तिं च समालम्ब्य दुष्कराणि कार्याणि लीलया साधयन्ति।