Chapter 9
सूक्तयः
1. एकपदेन उत्तरं लिखत—
(क) पिता पुत्राय बाल्ये किं यच्छति?
उत्तरम् — विद्याधनम्
(ख) विमूढधीः कीदृशीं वाचं परित्यजति ?
उत्तरम् — धर्मप्रदाम्
(ग) अस्मिन् लोके के एव चक्षुष्मन्तः प्रकीर्तिताः?
उत्तरम् — विद्वांसः
(घ) प्राणेभ्योऽपि कः रक्षणीयः?
उत्तरम् — सदाचारः
(ङ) आत्मनः श्रेयः इच्छन् नरः कीदृशं कर्म न कुर्यात् ?
उत्तरम् — अहितम्
(च) वाचि किं भवेत्?
उत्तरम् — समत्वम्
1. पिता पुत्राय बाल्ये किं यच्छति?
उत्तरम् — पिता पुत्राय बाल्ये विद्याधनं यच्छति।
2. विमूढधीः कीदृशीं वाचं परित्यजति?
उत्तरम् — विमूढधीः धर्मप्रदां वाचम् परित्यजति, परुषां वाचं उदीरयति।
3. अस्मिन् लोके के एव चक्षुष्मन्तः प्रकीर्तिताः?
उत्तरम् — अस्मिन् लोके विद्वांसः एव चक्षुष्मन्तः प्रकीर्तिताः।
4. प्राणेभ्यः अपि कः रक्षणीयः?
उत्तरम् — सदाचारः प्राणेभ्यः अपि रक्षणीयः।
5. आत्मनः श्रेयः इच्छन् नरः कीदृशं कर्म न कुर्यात्?
उत्तरम् — आत्मनः श्रेयः इच्छन् नरः अहितं कर्म न कुर्यात्।
6. वाचि किं भवेत्?
उत्तरम् — वाचि समत्वं भवेत्।
7. विवेकः कः उच्यते?
उत्तरम् — यः यथार्थं तत्त्वार्थनिर्णयं कर्तुं शक्नोति, सः विवेकः इति उच्यते।