Chapter 5
जननी तुल्यवत्सला
1. एकपदेन उत्तरं लिखत–
(क) वृषभः दीनः इति जानन्नपि कः तं नुद्यमानः आसीत्?
उत्तरम्: कृषकः
(ख) वृषभः कुत्र पपात?
उत्तरम्: क्षेत्रे
(ग) दुर्बले सुते कस्याः अधिका कृपा भवति?
उत्तरम्: मातुः
(घ) कयोः एकः शरीरेण दुर्बलः आसीत्?
उत्तरम्: वृषभयोः
(ङ) चण्डवातेन मेघरवैश्च सह कः समजायत?
उत्तरम्: प्रवर्षः
2. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत–
(क) कृषकः किं करोति स्म?
उत्तरम्: कृषकः बलीवर्दाभ्यां क्षेत्रकर्षणं करोति स्म।
(ख) माता सुरभिः किमर्थम् अश्रूणि मुञ्चति स्म?
उत्तरम्: माता सुरभिः दुर्बलस्य पुत्रस्य दुःखं दृष्ट्वा अश्रूणि मुञ्चति स्म।
(ग) सुरभिः इन्द्रस्य प्रश्नस्य किमुत्तरं ददाति?
उत्तरम्: सुरभिः उक्तवती यत् – “दीनस्य तु सतः पुत्रस्याभ्यधिका कृपा”।
(घ) मातुः अधिका कृपा कस्मिन् भवति?
उत्तरम्: मातुः अधिका कृपा दुर्बले सुते भवति।
(ङ) इन्द्रः दुर्बलवृषभस्य कष्टानि अपाकर्तुं किं कृतवान्?
उत्तरम्: इन्द्रः वृष्टिं कृत्वा कृषकं कर्षणात् निवर्तितवान्।
(च) जननी कीदृशी भवति?
उत्तरम्: जननी सर्वेषु अपत्येषु तुल्यवत्सला भवति।
(छ) पाठेऽस्मिन् कयोः संवादः विद्यते?
उत्तरम्: सुरभेः इन्द्रस्य च संवादः विद्यते।
1. कृषकः किं करोति स्म?
उत्तरम्: कृषकः बलीवर्दाभ्यां क्षेत्रकर्षणं करोति स्म।
2. माता सुरभिः किमर्थम् अश्रूणि मुञ्चति स्म?
उत्तरम्: माता सुरभिः दुर्बलस्य पुत्रस्य दुःखं दृष्ट्वा अश्रूणि मुञ्चति स्म।
3. सुरभिः इन्द्रस्य प्रश्नस्य किमुत्तरं ददाति?
उत्तरम्: सुरभिः इन्द्रं प्रत्यवोचत् – “दीनस्य तु सतः पुत्रस्याभ्यधिका कृपा।”
4. मातुः अधिका कृपा कस्मिन् भवति?
उत्तरम्: मातुः अधिका कृपा दुर्बले सुते भवति।
5. इन्द्रः दुर्बलवृषभस्य कष्टानि अपाकर्तुं किं कृतवान्?
उत्तरम्: इन्द्रः वृष्टिं कृत्वा कृषकं कर्षणात् निवर्तितवान्।
6. जननी कीदृशी भवति?
उत्तरम्: जननी सर्वेषु अपत्येषु तुल्यवत्सला भवति, किन्तु दुर्बले सुते कृपार्द्रहृदया भवति।
7. पाठेऽस्मिन् कयोः संवादः विद्यते?
उत्तरम्: पाठेऽस्मिन् सुरभेः इन्द्रस्य च संवादः विद्यते।