chapter 1


१) कस्य राजधानी प्रयागक्षेत्रे आसीत्?
उत्तर: पृथुराजस्य राजधानी प्रयागक्षेत्रे आसीत्।

२) प्रजाः कथं जीवन्ति?
उत्तर: प्रजाः पशुवत् जीवन्ति।

३) धनधान्यादि वस्तुजातं कुत्र वर्तते?
उत्तर: वसुन्धरायाः उदर एव वर्तते।

४) बीजेभ्यः अङ्कुराः कदा उद्भूताः?
उत्तर: पर्जन्यानन्तरं बीजेभ्यः अङ्कुराः उद्भूताः।

५) स्तुतिगायकाः कदा प्रसन्नाः अभवन्?
उत्तर: पृथुवैन्यस्य निःस्पृहतां ज्ञाय ते प्रसन्नाः अभवन्।

६) भूमिः पृथोः पुरतः कस्य रूपेण प्रकटिता?
उत्तर: भूमिः स्त्रीरूपं धृत्वा प्रकटिता।

७) भूमिः पृथुम् किम् उपदिशत्?
उत्तर: भूमिः पृथुम् धनुः त्यज इति उपदिशत्।

८) पृथुः कस्य प्रथमः सम्राट् अभवत्?
उत्तर: पृथुः धरायाः प्रथमः सम्राट् अभवत्।

९) पृथुः प्रजाजनैः सह किम् अकरोत्?
उत्तर: कृषिकार्यम् अकरोत्।

१०) भूमेः उपदेशं कः मनसि निधाय कृषिकार्यम् अकरोत्?
उत्तर: पृथुवैन्यः।

११) ‘पशुवज्जीवन्ति’ इत्यत्र सन्धिविग्रहः कः?
उत्तर: पशुवत् + जीवन्ति।

१२) ‘पुरोहितोऽवदत्’ इत्यत्र सन्धिविग्रहः कः?
उत्तर: पुरोहितः + अवदत्।

१३) ‘अशक्ताश्च’ इत्यत्र सन्धिविग्रहः कः?
उत्तर: अशक्ताः + च।

१४) ‘उदर एव’ इत्यत्र सन्धिविग्रहः कः?
उत्तर: उदर + एव।

१५) ‘भूमिः’ शब्दस्य समानार्थक शब्दः कः?
उत्तर: वसुन्धरा, धरणी, पृथिवी।

१६) ‘राजा’ शब्दस्य समानार्थक शब्दः कः?
उत्तर: नृपः, भूपः, सम्राट्।

१७) ‘वृक्षः’ शब्दस्य समानार्थक शब्दः कः?
उत्तर: तरुः, द्रुमः।

१८) ‘स्तुतिः’ शब्दस्य विरुद्धार्थक शब्दः कः?
उत्तर: निन्दा।

१९) ‘प्रसन्नाः’ शब्दस्य विरुद्धार्थक शब्दः कः?
उत्तर: क्रुद्धाः।

२०) ‘अशक्ताः’ शब्दस्य विरुद्धार्थक शब्दः कः?
उत्तर: शक्ताः।

२१) 'त्वं प्रयत्नेन कृषिकार्यं करोषि' इत्यस्य रूपान्तरणं किम्?
उत्तर: भवान् प्रयत्नेन कृषिकार्यं करोति।

२२) 'त्वं धनुः त्यज' – 'भवान्' स्थाने वाक्यं किम्?
उत्तर: भवान् धनुः त्यजतु।

२३) 'भूमातुः उपदेशं...' मध्ये 'भूमातुः' स्थाने योग्य रूपं किम्?
उत्तर: भूमेः।

२४) 'कुरु' इत्यस्य लकारः कः?
उत्तर: लोट् लकारः।

२५) 'भविष्यामि' इत्यस्य लिङ् लकाररूपं किम्?
उत्तर: स्याम्।

२६) 'कृशाः' इत्यस्य विशेष्यम् किम्?
उत्तर: प्रजाजनाः।

२७) 'उर्वरा' इत्यस्य विशेष्यम् किम्?
उत्तर: भूमिः।

२८) 'प्रजाहितदक्षः' इत्यस्य विशेष्यम् किम्?
उत्तर: पृथुः।

२९) 'दुःशासकः' इत्यस्य विशेष्यम् किम्?
उत्तर: वेनः।

३०) ‘भूमिः स्त्रीरूपं धृत्वा प्रकटिता’ इत्यत्र ‘भूमिः’ पदं अमरकोषात् बदलून वाक्य पुनर्लिखत।
उत्तर: धरणी स्त्रीरूपं धृत्वा प्रकटिता।

Answer by dimpee